Saturday, 7 July 2012


समेप्यत्र सिद्धाः समागत्य भांति,
सदा सर्व लोकेषु वांछन्ति शान्तिम्।
समायान्ति पुण्याः विपाकाः प्रयान्ति,
प्रयागाधिराजे शुभे तीर्थ राजे।।1
सदा भाव शुद्धिःसुशान्ति स्वभावे,
सदैवात्र धर्म प्रवृद्धिः प्रभावे।
वसन्तीह तीर्थानि दासत्व भावे,
प्रयागाधिराजे शुभे तीर्थ राजे।।2
तरंगाकुला गौर रूपात्र भक्तिः,
गभीरासिता कृष्ण जायानुरक्तिः।
सुगुप्ता च या बोध रूपा विरक्तिः,
विभिन्ना च धाराः सुयुक्ताः प्रयागे।।
प्रयागाधिराजे शुभे तीर्थ राजे।।3
अहो द्वादशाः माधवाः यत्र दिव्याः,
तथा शक्तिपीठोपि ह्यत्रैव भव्यः.
रविर्द्वादशात्मा पुराणोपि नव्यः,
प्रयागाधिराजे शुभे तीर्थ राजे।।4
प्रभावःप्रयागस्य लोके प्रकामं,
समे मानवाः यत्र मुक्तिं लभन्ते।
मिताहार वृत्या भजन्तीह रामं,
प्रयागाधिराजे शुभे तीर्थ राजे।।5
उमेशो रमेशःप्रजेशः सुरेशः,
दिनेशो निशेशो धनेशो जलेशः।
व्रजेशो नरेशोत्तमो रामचन्द्रः,
समेप्यत्र सन्ति प्रयागस्य भूमौ(पीठे)
प्रयागाधिराजे शुभे तीर्थ राजे।।6
भुजंगप्रयात छंद में भावना का शब्दाकार स्वरूप.......
तीर्थ राज प्रयागे भवेत् मंगलम्,
यत्र गंगादि नद्यः सदा निर्मलाः
साधवो यत्र सिद्धौ रताः निश्छलाः
दैन्य दारिद्रय दोषाः यतो  निष्फलाः,
निर्गताः नात्र तेषां मुखं श्यामलम्।।
तीर्थ राज प्रयागे भवेत् मंगलम्।।
स्रग्विणी छन्द की प्रस्तुति

नमामः त्वां वयं श्रीमन्,वदामः स्वागतं प्रीत्या।
त्वदीयं स्वागतं भगवन्,त्वदीयं स्वागतं विद्वन्।।1
अहो भाग्यं प्रभूतं वै,समेषां पावनं पुण्यं।
भवानभ्यागतो भूत्वा,समायातः समाजेस्मिन्।।
भगिन्यो भ्रातरःसर्वे,नमामः त्वां यथा रीत्या।।
नमामः त्वां वयं श्रीमन्,वदामः स्वागतं प्रीत्या।।2
न सेवा भावना भक्तिः,न काचित् साधना शक्तिः।
न योग्याःज्ञानिनो बालाः,तथापि श्रद्धया युक्ताः।।
न जानीमो विधानं भो,विषण्णाः स्मो वयं भीत्या।।
नमामः त्वां वयं श्रीमन्,वदामः स्वागतं प्रीत्या।।3
कदाचित् स्यात् त्रुटिर् विद्वन्,क्षमा याञ्चा वयं कुर्मः।
भवान् साधुः स्वभावेन,स्वकीयं बालकं मत्वा।।
क्षमादानं प्रदेहि त्वं,वदामः त्वां वयं नीत्या।।
वदामःस्वागतं प्रीत्या,वदामः स्वागतं प्रीत्या।।4


अहं कोस्मि सदा भवति,मदीये चिन्तनं चित्ते।
कथं मृत्युः कथं जन्म,तथाघादीनि वै वृत्ते।।1
कुतश्चायाति जीवोयं,कथं आयाति वै लोके।
सदा वै मज्जति बद्धः,कथं हर्षेथवा शोके।।
कथं लोभाभिभूतोसौ,पतति नरकात्मके वित्ते।।
अहं कोस्मि सदा भवति,मदीये चिन्तनं चित्ते।।2
अभीतं भव सदा मित्रं,वदन्ति लोके मित्राणि,
यथा वस्त्राणि धृत्वा ना,तथा देही शरीराणि।
भ्रमन्ति पाश बद्धाःवै,समे पापात्मके कृत्ये।।
अहं कोस्मि सदा भवति,मदीये चिन्तनं चित्ते।।3
कथं विज्ञः कथं मूर्खः,कथं श्यामः,कथं गौरः,
कथं क्रूरः कथं नम्रः,कथं वन्यः कथं पौरः।
 कथं दोषाः समायान्ति,चिन्मये आत्मनि नित्ये।।
अहं कोस्मि सदा भवति,मदीये चिन्तनं चित्ते।।4
क्व गच्छन्ति नराःत्यक्त्वा,शरीराणि इतःनित्यम्।
रुदन्ति बांधबाः ह्यत्र,स्मृत्वा भूरिशः कृत्यं।।
तथापि ह्यात्म दृष्ट्या तु,समत्वं राजनि भृत्ये।।5समर्थश्री

ग्रीष्म
निस्तृणा मेदिनी ग्रीष्मकाले तथा,
निर्विकाराः यथा साधवो योगिनः।
पुष्पशून्याः लताः पत्रशून्यास्तथा,
तत्वज्ञाने यथा वासनाः निर्गताः।।1
निम्नगाः वै कृशाः कोमलांगी यथा,
वारिदेहेन ताः लोक सेवा रताः।
जानुमात्रे जले बालकाः निर्भयाः,
क्रीडमानाः प्रफुल्लाः लसन्ति श्रिया।।2
धान्यशून्यानि क्षेत्राणि रिक्तानि वै,
मानवाः स्वेदसिक्ताः समे व्याकुलाः।
वृक्षसंघान्तरे चातपात्पीडिताः,
लोकवार्तारताःव्यग्रचित्ताश्च ते।।3
सागरे भूधरे वायुमध्ये तथा,
कानने वै गृहे कन्दरायां तथा।
दिक्षु मध्ये दिगन्ते तथा मन्दिरे,
अन्तरिक्षेपि वह्निः धरायां तथा।।4
तापतप्ता धरा ग्रीष्म काले यदा,
कातरा भास्करं प्रार्थयन्ती स्वयम्।
भास्करो भग्न चित्तां तदा मेदिनीं,
स्नेह-धाराशतैःसिंचति प्रीतिदः।।5
भास्करो वै मयूखैः जलं कर्षति,
भूपतिर्वै करं लोक वृद्ध्यै यथा।
आतपे भूतसंघःतपस्यारतः,
साधना वै निदाघस्य वृद्ध्यै तथा।।6


कलौ किम्


कलौ किम्
श्वानो गृहेषु गृहणी हृदये वसन्ति,
गावो चरन्ति विजने पथि वा भ्रमन्ति।
भाग्यं द्वयोः समवलोक्य कलेर् महत्वं,
वक्तुं भविष्यति न कोपि कलौ समर्थः।।
सत्यं कलेर्न महिमा खलु वर्णनीया।।1
आचार हीन मतयो मदिरां पिबन्ति,
विप्राः श्रुतं श्रुतिपथं सहसा विहाय।
सन्ध्यादिकं प्रतिदिनं परिहृत्य दूरात्,
शूद्रान्न सेवन रताः कुपथे प्रवृत्ताः।।2
सन्तो भ्रमन्ति समुपासन भाव शून्याः,
शास्त्रोपदेश निपुणाः कृपणाः सुदीनाः।
दंभोत्सुकाः सुमलिनाःमदनातुराः वै,
भक्तिं विहाय भव भूति कृते सयत्नाः।।3
कार्यालयेषु परिचारक वृत्ति मत्यः,
बालान् पतीन् परिजनांश्च विहाय गेहे।
वध्वः प्रयान्ति परितःपवनोपमास्ताः,
भोगाभिलाष निपुणाः चपलाः विशेषाः।।4
सत्यं छलेन विहतं शुचिता सुखेन,
शान्तिः रजोगुण तमोगुण द्वंद्व वृत्या।
देवार्चनं तु विधि हीन नरैः परास्तं,
चारित्र्यचिन्तन कथा मदमोह मत्या।।5