Saturday, 7 July 2012


श्रवणं प्रथमं,श्रुति वाक्यमहो,गुरुदेव मुखादनुभूतिमयम्।
कृपया परया परमात्मकृपा,स्वत एव विभाति मनस्यमले।।1
मननं च ततः सततं हृदये,तदनन्तरमाह्निक कर्मणि स्यात्।
भवने च वने पथिमध्यगते,चिति मात्रमहं रटनं सततम्।।2
(निज भासमहं रटनं सततम्)
भजने शयने वदने गमने,हसने श्वसने श्रवणे शमने।
अदने च तथा परितः भ्रमणे,श्रुति सार कथा भवितव्यमहो।।3
न निजो मम कोपि परोपि तथा,1अहमेव विभाति सदा भुवने।
अनुकूलतया प्रतिकूलतया,ममता प्रतिभाति सदा भुवने।।4
सरिताः च नगाः जलधिः तरवः,गगनः पवनः सलिलं वसुधा।
अनलः पशवश्च खगाः मनुजाः,मम रूपमहो मम रूपमहो।।5
अधरं मधुरं वदनं मधुरं,,,तोटक छंद की रचना
यहां पर अहमेव विभामि होना चाहिए परन्तु यहां अहं अस्मद शब्द निरूपित नहीं अपितु हन्यते इति ह,,न हन्यते इति अह तदेव अहम्,,जो किसी के द्वारा नष्ट न किया जा सके वह अहं,,आत्म तत्व,,

No comments:

Post a Comment