Saturday 7 July 2012


अहं कोस्मि सदा भवति,मदीये चिन्तनं चित्ते।
कथं मृत्युः कथं जन्म,तथाघादीनि वै वृत्ते।।1
कुतश्चायाति जीवोयं,कथं आयाति वै लोके।
सदा वै मज्जति बद्धः,कथं हर्षेथवा शोके।।
कथं लोभाभिभूतोसौ,पतति नरकात्मके वित्ते।।
अहं कोस्मि सदा भवति,मदीये चिन्तनं चित्ते।।2
अभीतं भव सदा मित्रं,वदन्ति लोके मित्राणि,
यथा वस्त्राणि धृत्वा ना,तथा देही शरीराणि।
भ्रमन्ति पाश बद्धाःवै,समे पापात्मके कृत्ये।।
अहं कोस्मि सदा भवति,मदीये चिन्तनं चित्ते।।3
कथं विज्ञः कथं मूर्खः,कथं श्यामः,कथं गौरः,
कथं क्रूरः कथं नम्रः,कथं वन्यः कथं पौरः।
 कथं दोषाः समायान्ति,चिन्मये आत्मनि नित्ये।।
अहं कोस्मि सदा भवति,मदीये चिन्तनं चित्ते।।4
क्व गच्छन्ति नराःत्यक्त्वा,शरीराणि इतःनित्यम्।
रुदन्ति बांधबाः ह्यत्र,स्मृत्वा भूरिशः कृत्यं।।
तथापि ह्यात्म दृष्ट्या तु,समत्वं राजनि भृत्ये।।5समर्थश्री

No comments:

Post a Comment