Saturday 7 July 2012


नमामः त्वां वयं श्रीमन्,वदामः स्वागतं प्रीत्या।
त्वदीयं स्वागतं भगवन्,त्वदीयं स्वागतं विद्वन्।।1
अहो भाग्यं प्रभूतं वै,समेषां पावनं पुण्यं।
भवानभ्यागतो भूत्वा,समायातः समाजेस्मिन्।।
भगिन्यो भ्रातरःसर्वे,नमामः त्वां यथा रीत्या।।
नमामः त्वां वयं श्रीमन्,वदामः स्वागतं प्रीत्या।।2
न सेवा भावना भक्तिः,न काचित् साधना शक्तिः।
न योग्याःज्ञानिनो बालाः,तथापि श्रद्धया युक्ताः।।
न जानीमो विधानं भो,विषण्णाः स्मो वयं भीत्या।।
नमामः त्वां वयं श्रीमन्,वदामः स्वागतं प्रीत्या।।3
कदाचित् स्यात् त्रुटिर् विद्वन्,क्षमा याञ्चा वयं कुर्मः।
भवान् साधुः स्वभावेन,स्वकीयं बालकं मत्वा।।
क्षमादानं प्रदेहि त्वं,वदामः त्वां वयं नीत्या।।
वदामःस्वागतं प्रीत्या,वदामः स्वागतं प्रीत्या।।4

No comments:

Post a Comment