Saturday 7 July 2012

कपिल पंचकम्


कपिल पंचक
अनाद्यनंतं कमनीय वर्चसं,समाधि-निष्ठं ननु कोविदां वरम्।
वरेण्यकीर्तिं कमलासनादिभिः,नमामि शान्तं कपिलं महाप्रभुम्।।1
कृपा परेशं परपक्ष साधकं,स्वमातरं सांख्यधियात्म-दर्शकम्।
सतां समक्षं समवस्थितं मुनिं,नमामि सिद्धं कपिलं महाप्रभुम्।।2
हितं हि लोकस्य विचिन्त्य तेजसा,ददाह यो वै सगरात्मजान् रुषा।
सनातनं तं सकलार्थदं विभुं,नमामि संतं कपिलं महाप्रभुम्।।3
विलोक्य लोके विधिहीनतामिना,समोपदिष्टं भुवि सांख्यदर्शनम्।
परात्परं तं परमार्थबोधकं,नमामि सौम्यं कपिलं महाप्रभुम्।।4
स्मरामि नित्यं हृदि कर्दमात्मजं,विशिष्टबोधाकर-देवहूतिजम्।
सदासदाचार विचार पोषकं,नमामि सत्यं कपिलं महाप्रभुम्।।5
जिज्ञासूनां प्रबोधाय,कपिलप्रीति हेतवे।
पंचकं कुरुते भक्त्या,त्र्यंबकः समुदारधीः।।
वंशस्थ छंद की रचना है,,,,

No comments:

Post a Comment