Sunday 4 March 2012

आरक्षणम्




             आरक्षणम्
स्वाथ्य शिक्षा सुरक्षासु चारक्षणं,राष्ट्र हेतोःकथं नापि सिद्धिप्रदम्।
ते पठेयुःनिशुल्का सदा तत्पराः,ज्ञानयुक्ताःभवेयुःसमर्थाःसमे।।1।।
योग्यतायाःसदोदार-चित्तेन वै,मान वर्धापनं लोकसिद्धयै भवेत्।
योग्यतायाःउपेक्षा न लाभास्पदं,कुंठिता योग्यता नो विकासप्रदा।।2।।
स्वास्थ्य-केन्द्रेषु मंदाःयदा रोगहाः,रोगिणःरोगमुक्त्यै यतेयुःकथम्।
ते गमिष्यन्ति देशांतरं पीडिताः,राष्ट्रवित्तं तदा वै विदेशं व्रजेत्।।3।।
शिक्षकाः योग्यताधारहीनाःयदा,राष्ट्र निर्माणमूलाःतदा बालकाः।
ज्ञानहीनाः शुभाचारहीनाःसमे,दीनचित्ताःप्रवृत्ताःकुकार्येषु ते।।4।।
शौर्यशून्याःसुदीनाःयदा रक्षकाः,राष्ट्रसीमा सुरक्षापि शंकास्पदा।
राष्ट्रविध्वंसकाःहिंसकाःजाग्रताः,चौर्यवृद्धिश्च देशे तदा वै भवेत्।।5।।
निर्धनाःयोग्यतापूर्णवित्ताःजनाः,ते समे संभवेयुश्च लाभान्विताः।
येन राष्ट्रीय चित्रं पवित्रं भवेत्,आर्थिकं वै भवेत् नैव जात्या भवेत्।
जातिमूलं विनाशाय चारक्षणम्।।6।।
भोजनं भाजनं पुस्तकं विष्टरं,शुल्कशून्यं समं सर्वकारः क्रियेत्।
योग्यतामर्जयित्वा तदा शिक्षिताः,मानयुक्ताः नियुक्ताः भबंतु स्वयम्।।7।।

No comments:

Post a Comment