प्रदूषणं मृत्युमुखं
सुनिश्चितं,नरान्तकं पूतिमयं धरातले।
जले स्थले वायु वितान मंडले,यतस्ततःसर्वत एव दृश्यते।।1
प्रदूषणेनाद्य हतं
सुनिर्मलं,जलं जलं वा मलमेव दृश्यते। निपीय तोयं ननु रोग बर्धनं,जनाःन जीवन्ति
मृतोपमाश्च ते।।2
प्रदूषणं लोक
विनाशकारकं,समस्तसंसार सुसौख्य हारकम्।
विपत्सहस्राणि सदैव धारकं,गभीर घोषेण शमं विदारकम्।।3
फलानि मूलानि जलानि
भांतिवै,विकारयुक्तानि पयांसि भारते। सरित्वराःशुष्कतमाः
प्रदूषिताः,तडागमुख्यानि च न सन्ति कुत्रचित्।।4
ध्वनेःविकाराःजनयन्
प्रदूषणं,कर्णान् जनानां ननु हन्ति पीडयन्।
शतं सहस्रं च ततोपि पुष्कलं,दुखादिमूलं सततं प्रदूषणम्।।5
तमःप्रधानं विकृतं च
डीजलं,समीर शुद्धिंप्रणिहत्य राजते। तदीय
दोषेण नराःनिरामयाः,अपि प्रदीप्ताः ननु रोगराशिभिः।।6
सुनेत्रवन्तोप्युपनेत्रवन्त
ये,पश्यन्ति मार्गं सुखशान्ति दायकम्।
अहो राजयक्ष्मा च कासादि रोगाः,अहोरात्रमापीडयन्ति प्रजां ते।।7
किमस्ति खाद्यं भुवि
शुद्धसात्विकं,तथा च पेयं वद मानसे निजे। कथं वसेयं क्वच भूतले
सुखी,न दृश्यते दुख विनाश कारणम्।।8
अतएव
सदाशयाः
भारतभाग्यभूषणाः,महर्षयो वृक्षकुले वसन्ति वै।
सुधान्यमूलेन फलेन वापि ते,सुखेन प्राणान्परिपालयन्ति वै।।9
समर्थश्री
No comments:
Post a Comment