न जानामि चित्तं मदीयं विना ते,कथं खिन्नतायां
विगाहं करोति।
त्वदीयं मुखं चन्द्रिका भासयुक्तं,गृहीतुं मनो मे प्रयासं करोति।।कथं
विस्मरानि कथं विस्मरानि।।
यदैवास्मि शून्ये तदैवास्ति चिन्ता,अहो प्रीति
पीडा नवीना च नित्या। सभाया-मरण्ये
विषादे विलासे,सदासि प्रविष्टा मदीये सुचित्ते।।कथं विस्मरानि कथं विस्मरानि।।
यदा मन्दिरे भोक्तु-कामा-गतोहं,तवैवाननं सम्मुखं
मे तदासीत्।
यदा-शेतुकामा-गतोहं गृहे
मे,न निद्रा नु नेत्रेषु राका व्यतीता।।कथं विस्मरानि,कथं विस्मरानि।।
त्वदीयं स्मितं चन्द्रहासोपमं वै,सुनेत्रे
त्वदीये सरोजायते वै। सुनासा
त्वदीया शुकेनापि रम्या,त्वदीयं सुगन्ध्यं सुदेवोपमं वै।।कथं विस्मरानि...
त्वदीयं प्रयाणं सदा मृत्यु तुल्यं,यदायाति
पार्श्वं तदा सौख्य वृद्धिः।
मनोभाव मध्ये त्वमेवासि मुग्धे,त्वदीयं विना निर्जनं भाति लोकम्।।कथं
विस्मरानि कथं विस्मरानि।।
भुजंगप्रयात छंद है,भावों को कल्पना का सहारा
देकर उङने से रोका नहीं...अच्छा लगे तो एक बार मुस्करा दीजियेगा...
No comments:
Post a Comment