Thursday 3 May 2012


श्री लक्ष्येश्वर पंचकम्
सद्योगीश्वर वृन्द वन्दित मतिःविद्यावतां भूपतिः,
 स्वाध्यायाध्यय-नावबोध-विहितानुष्ठान-निष्ठाव्रती।
भूमानंद निकेतने विलसितो द्वारिद्यु नद्यास्तटे,
वन्द्यो ज्ञान सुधाकरो गुरुवरो लक्ष्यंश्वराख्यो यतिः।।1
लीलाभ्यस्त समस्त शास्त्र सिरसा विद्यालये नोहरे,
काश्यां चाथ हिमालये जयपुरे वृन्दावने सद्वने।
जातस्तर्क वितर्क कर्कश मतिःसांगत्रयी पारगः,
वन्द्यो..........................................................2।।
लोकान्तस्तिमिरावलीं कवलयन् ज्ञान प्रभां बर्धयन्,
अज्ञान्वेद विदूषकाश्च शमयन् विज्ञान्जनान् हर्षयन्।
ज्ञानाकाश विभूषणश्च सविता भूमौ हि यो राजते,
वंद्यो........................................................3।।
द्रव्यस्पर्श विनैव जीवनमहो येषां गतं पावनं,
ब्रह्मोपासनया समृद्ध तपसा तेजस्विता यन्मुखे।
वैराग्याम्वुधि मज्जने हि निरतो दिव्यैव यस्य स्मृतिः,
वंद्यो........................................................4।।
यो चिन्ता मणिमालिकामनुपमां दृष्ट्वैव हर्षोत्सुकः,
सभ्यःसाधुशिरोमणिर्यतिवरःस्नेहेन वै भावुकः।
सद्यःशान्ति सुभाषितैःवितरको दिव्य प्रभा भासुरः,
वन्द्यो ज्ञान सुधाकरो गुरुवरो लक्ष्येश्वराख्यो यतिः।।5
साधूनां स्मरणं पुण्यं यत्तेषां हृदये हरिः।                                        तद्धरिदर्शनार्थं हि मयाकारि तु पंचकम्।।

No comments:

Post a Comment