कथय किं कारणं मुग्धे,त्वदीया मयि कृपा नास्ति।
वसन्तो वर्तमानोस्ति,मनसि मदनस्य वासोस्ति।।
सौरभं सेवितुं कामा सुमनपुंजेषु वै भ्रमराः।
भ्रमन्ति मोदमानास्ते,निर्भयाःरागरक्ताःवै।।
मृगाःनिज भार्यया साकं,वनेषु क्रीडने सक्ताः, तडागेषु
च वै हंसाः,जल क्रीडा रताःसन्ति।।
लताःसर्वाःसमुल्लसिताः,सपुष्पाश्च सपत्राश्च।
वृक्ष
शाखाश्रये दिव्या,प्रसन्नाःशोभिताःसन्ति।।
धावमाना इमाःनद्यःप्रयान्ति निश्छलाः सिन्धुं।
समुद्रोपि स्वयं प्रीत्या तरंगैःस्वागते
लग्नः।।
इदानीं ते कृपा मह्यं,जीवनस्यौषधेस्तुल्यं,
विना संगेन ते कान्ते,जीवनं मृत्तिका खण्डम्।।
देहि मे प्रीति पाथेयं,निजं भक्तं स्वयं मत्वा।
विना ते शून्यमिवाभाति, जगत्सर्वं इदं मान्ये।।
समर्थश्रीः
No comments:
Post a Comment