विश्वनाथःसदा भक्त संरक्षकः,विश्वनाथं नुमः(भजे)सौख्य संप्राप्तये।
विश्वनाथेन कामो हतस्तेजसा,विश्वनाथाय तस्मै नमो नित्यशः।।1।। विश्वनाथात् परं नास्ति लोके क्वचित्,विश्वनाथस्य भक्ताःवयं भावुकाः।
विश्वनाथे रतिः विश्वनाथे मतिः,नास्ति
चेत् जीवने दुर्दशा दुर्गतिः।।2।।
कृष्णो नीलमणिः सदा विजयते कृष्णं
कवीशं भजे, कृष्णेनात्र
हतः निशाचरपतिः कृष्णाय तस्मै नमः।
कृष्णान्नास्ति कलानिधिःखलु भुवौ कृष्णस्य दिव्या कथा,
कृष्णे बुद्धिलयःसदा भवति मे भो कृष्ण रक्षस्व माम्।।
No comments:
Post a Comment