Thursday 3 May 2012


भावना
त्वदीया भावना पूता,त्वदीया साधना पूता।
मदीये मानसे सौम्ये,तवैव चेतना पूता।।
विना ते चेतना शून्यं,जगत्सर्वं सदा भगवन्,।
विपन्नं वैभवैर्हीनं,निराभं च निरानन्दम्।।
धरा नीरं नभो वह्नि,समीरःपंचधा भूताः।
तथा देहादयो भवनाः,मिलित्वा च पृथक् सर्वे।।
त्वमेवासि नगोनागा,त्वमेवासि वनं नद्यः।
त्वमेवासि जगत्सर्वं, महत् सूक्ष्मं च यत्किंचित्।।
त्वदीयो मादृशो भक्तः,तवालम्वेन निश्चिन्तः।
त्वदीये चिन्तने युक्तः,सदा सद्भाव संयुक्तः।।
,

No comments:

Post a Comment